Hindi Mode BhagwanApp

श्री नृसिंह स्तोत्र

नृसिंह जयंती पर पढ़ें शक्तिशाली और प्रभावशाली श्री नृसिंह स्तोत्र, यह स्तोत्र मुख्य रूप से भगवान विष्णु के नरसिंह अवतार का वर्णन करता है। कुन्देन्दुशङ्खवर्णः कृतयुगभगवान्पद्मपुष्पप्रदाता, त्रेतायां काञ्चनाभिः पुनरपि समये द्वापरे रक्तवर्णः। शङ्को सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभा, प्रद्योतसृष्टिकर्ता परबलमदनः पातु मां नारसिंहः ॥१॥

Narsingh Stotra Stotra
  • 324 View
  • 8 months ago
  • Mamta Sharma
  • 01 Jul 2025

मंत्र

॥ ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्। नृसिंहं भीषणं भद्रं मृत्यु मृत्युं नमाम्यहम् ॥

कुन्देन्दुशङ्खवर्णः कृतयुगभगवान्पद्मपुष्पप्रदाता
त्रेतायां काञ्चनाभिः पुनरपि समये द्वापरे रक्तवर्णः ।
शङ्को सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभा
प्रद्योतसृष्टिकर्ता परबलमदनः पातु मां नारसिंहः ॥ १ ॥

नासाग्रं पीनगण्डं परबलमदनं बद्धकेयुरहारं
वज्रं दंष्ट्राकरालं परिमितगणनः कोटिसूर्याग्नितेजः ।
गांभीर्यं पिङ्गलाक्षं भ्रुकिटतमुखं केशकेशार्धभागं
वन्दे भीमाट्टहासं त्रिभुवनजयः पातु मां नारसिंहः ॥ २ ॥

पादद्वन्द्वं धरित्र्यां पटुतरविपुलं मेरुमध्याह्नसेतुं
नाभिं ब्रह्माण्डसिन्धो हृदयमभिमुखं भूतविद्वांसनेतः ।
आहुश्चक्रं तस्य बाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रम् ।
वक्त्रं वह्न्यस्य विद्यस्सुरगणविनुतः पातु मां नारसिंहः ॥ ३ ॥

घोरं भीमं महोग्रं स्फटिककुटिलता भीमपालं पलाक्षं
चोर्ध्वं केशं प्रलयशशिमुखं वज्रदंष्ट्राकरालम् ।
द्वात्रिंशद्बाहुयुग्मं परिखगदात्रिशूलपाशपाण्यग्निधार
वन्दे भीमाट्टहासं लखगुणविजयः पातु मां नारसिंहः ॥ ४ ॥

गोकण्ठं दारुणान्तं वनवरविदिपी डिंडिडिंडोटडिंभं
डिंभं डिंभं डिडिंभं दहमपि दहमः झंप्रझंप्रेस्तु झंप्रैः ।
तुल्यस्तुल्यस्तुतुल्य त्रिघुम घुमघुमां कुङ्कुमां कुङ्कुमाङ्गं
इत्येवं नारसिंहं पूर्णचन्द्रं वहति कुकुभः पातु मां नारसिंहः ॥ ५ ॥

भूभृद्भूभुजङ्गं मकरकरकर प्रज्वलज्ज्वालमालं
खर्जर्जं खर्जखर्जं खजखजखजितं खर्जखर्जर्जयन्तम् ।
भोभागं भोगभागं गग गग गहनं कद्रुम धृत्य कण्ठं
स्वच्छं पुच्छं सुकच्छं स्वचितहितकरः पातु मां नारसिंहः ॥ ६ ॥

झुंझुंझुंकारकारं जटमटिजननं जानुरूपं जकारं
हंहंहं हंसरूपं हयशत ककुभं अट्टहासं विवेशम् ।
वंवंवं वायुवेगं सुरवरविनुतं वामनाक्षं सुरेशं
लंलंलं लालिताक्षं लखगुणविजयः पातु मां नारसिंहः ॥ ७ ॥

यं दृष्ट्वा नारसिंहं विकृतनखमुखं तीक्ष्णदंष्ट्राकरालं
पिङ्गाक्षं स्निग्धवर्णं जितवपुसदृशः कुंचिताग्रोग्रतेजाः ।
भीताश्चा दानवेन्द्रास्सुरभयविनुतिश्शक्तिनिर्मुक्तहस्तं
नाशास्यं किं कमेतं क्षपितजनकजः पातु मां नारसिंहः ॥ ८ ॥

श्रीवत्साङ्कं त्रिनेत्रं शशिधरधवलं चक्रहस्तं सुरेशं
वेदाङ्गं वेदनादं विनुततनुविदं वेदरूपं स्वरूपम् ।
होंहों होंकारकारं हुतवह नयनं प्रज्वलज्वाल पाक्षं
क्षंक्षंक्षं बीजरूपं नरहरि विनुतः पातु मां नारसिंहः ॥ ९ ॥

अहो वीर्यमहो शौर्यं महाबलपराक्रमम् ।
नारसिंहं महादेवं अहोबलमहाबलम् ॥ १० ॥

ज्वालाहोबलमालोलः क्रोडाकारं च भार्गवम् ।
योगानन्दश्चत्रवट पावना नवमूर्तये ॥ ११ ॥

श्रीमन्नृसिंह विभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय ।
तृष्णादि वृश्चिक जलाग्निभुजङ्ग रोग-क्लेशव्ययाय हरये गुरवे नमस्ते ॥

। इति श्री नृसिंह स्तोत्रं ।

Releated Stories

Shree Vishnu Chalisa
श्री विष्णु चालीसा

भगवान श्री हरि विष्णु जी की चालीसा पढ़ने वाले भक्त पर श्री विष्णु भगवान के साथ मां श्री लक्ष्मी की भी कृपा प्राप्त होती है।

Kanakdhara Stotra Path
महालक्ष्मी कनकधारा स्त्रोत पाठ

अपार धन-संपदा देने वाला कनकधारा स्त्रोत - अङ्ग हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।